|
|
 |
 |
|
|
१५ मौसलपर्व.jpg)
मौसलपर्व - अध्याय 003
॥ श्रीः ॥
15.3. अध्यायः 003
Mahabharata - Mausala Parva - Chapter Topics
द्वारकायां नानोत्पातप्रादुर्भावः॥ 1 ॥ तत्तद्दर्शनात्कृष्णेन गान्धारीशापदानानुस्मरेण तस्य सत्यताचिकीर्षया भटैः सर्ववृष्ण्यादीनां तीर्थयात्रोद्धोषणम्॥ 2 ॥
Mahabharata - Mausala Parva - Chapter Text
वैशंपाय उवाच।
एवं प्रयतमानानां वृष्णीनामन्धकैः सह।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः॥ 15-3-1(96946)
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित्॥ 15-3-2(96947)
तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा॥ 15-3-3(96948)
उत्पेदिरे महावाता दारुणाश्च दिनेदिने।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः॥ 15-3-4(96949)
विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि॥ 15-3-5(96950)
चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि॥ 15-3-6(96951)
अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा।
अजाः शिवानां विरुतमन्वकुर्वत भारत॥ 15-3-7(96952)
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा॥ 15-3-8(96953)
व्यजायन्त खरा गोषु करभाश्वतरीषु च।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च॥ 15-3-9(96954)
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च॥ 15-3-10(96955)
गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा॥ 15-3-11(96956)
विभावसुः प्रज्वलितो वामं विपरिवर्तते।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्॥ 15-3-12(96957)
उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः॥ 15-3-13(96958)
महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः॥ 15-3-14(96959)
पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन॥ 15-3-15(96960)
परस्परं च नक्षत्रं हन्यमानं पुनःपुनः॥
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन॥ 15-3-16(96961)
नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः॥ 15-3-17(96962)
एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम्।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम्॥ 15-3-18(96963)
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः॥ 15-3-19(96964)
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः॥ 15-3-20(96965)
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा।
यदनुव्याजहारार्ता तदिदं समुपागमत्॥ 15-3-21(96966)
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान्॥ 15-3-22(96967)
इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत्।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः॥ 15-3-23(96968)
अघोषयन्त पुरुषास्तत्र केशवशासनात्।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः॥ ॥ 15-3-24(96969)
इति श्रीमन्महाभारते मौसलपर्वणि तृतीयोऽध्यायः ॥
Mahabharata - Mausala Parva - Chapter Footnotes
7-3-1 कालः कपोतोलूकादिरूपेण॥ 7-3-2 स एव क्वचित्करालादिरूपोऽदृस्यत क्वचिन्न। आवेक्ष्य परिक्रामन्निति शेषः॥ 7-3-3 सर्वभूतानां अत्ययो नाशो यस्मात्॥ 7-3-5 मणिका मृत्पात्राणि॥ 7-3-11 उच्चरन्ति वञ्चयन्ति॥ 7-3-14 आहार्यमाणे अन्ने। 7-3-16 स्वनक्षत्रादर्शनमपि स्वमृत्युसूचकमित्यर्थः॥ 7-3-18 एवमिति। त्रयोदशदिवसः कृष्णपक्षोऽभूदित्यर्थः॥ 7-3-19 एवं सत्यग्रिमपक्षए वृद्ध्या भाव्यं तन्न जातं प्रत्युतैकातिथिः क्षीणा तत्र ग्रहणं र्चं जातमित्याह चतुर्दशीति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|